ÀҾ˹éÒ˹ѧÊ×Í
PDF
ePub

अष्टादशसु वर्णेषु त्वादृशो नास्ति दुर्जनः ।
मनस्येकं समास्थाय वचसान्यत्प्रभाषसे ॥ १२ ॥
वृश्चिकस्य विषं पुच्छं मक्षिकाया विषं शिरः ।
सर्पस्यैव विषं दंष्ट्रा दुर्जनस्य विषं वपुः ॥ १३ ॥
त्वद्वपुर्दृश्यते सद्भिर्निष्पापमिव सर्वदा ।

बहिः स्वच्छं मन:पापं सर्व तरुपलाशवत् ॥ १४ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।

भारतोक्तं महापुण्यं शृण्वतां पापनाशनम् ॥ १५ ॥
गङ्गातीरे महापुण्ये मुनिसंघनिषेविते ।
तत्राग्रहारः सुमहानास्ते पुण्यविवर्धनः ॥ १६ ॥
तत्रैको ब्राह्मणः कश्चिद्वेदबाह्यः कृषीवलः ।
सदा दुर्जनसंसेवी मद्यपानपरायणः ॥ १७ ॥
वेश्यासक्तः सदा कामी कृतघ्नो हिंसकः खलः ।
पत्नीपुत्रान्परित्यज्य वर्तते विटसात्कृतः ॥ १८ ॥
चौर्य कृत्वा कियत्कालं द्यूतं कृत्वा कियत्तथा ।
मार्गमावृत्य च तथा सर्वस्वं दत्तवानिह ॥ १९ ॥
अकिंचनश्चिरं ध्यात्वा क्वापि गत्वा धनार्जनम्

पट्टनं वा वनं वापि प्रविश्य चिरकालतः ॥ २० ॥

12a LB अष्टादशेषु । 12c B मनस्येकां । B समाधाय । 12dB वचसान्य प्र० । 13b K मक्षिकस्य । B माक्षिकस्य । L म° मुखं विषं । 13e K तक्षकस्य statt सर्पस्यैव । 12d LB वपुर्विषं । 14a B तद्वपु° । 140 K मनःपंकं । B मनःकंपं । 14 L °पीलाशवत् । B •पलावसत् । 15a L हरंतीमितिहासं । B हरंतीम इतिहासं । 16C LB ॰गृहारः । 178 B वेदानां च क्रयांबलः ? 184 K वेश्यासक्तो महाकामी |

18cd om. K.

19b K कियत्तदा ।

18dL वट° । B °त्कृतैः । B कियात्तया । 19c L मार्गमाकृत्य | 20ab om. K. 208 B अकिंचनः । 20b B धनार्जने ।

आर्जयामि तथा यत्नान्महद्दनमवाप्नुयाम् ।

इति निश्चित्य मनसा प्रययावुत्तरां दिशम् ॥ २१ ॥
नानादेशानतिक्रम्य नगरोपवनानि च ।

गत्वा हिमवतः पार्श्व ददर्श सुमहावटम् ॥ २२ ॥

दीर्घशाखं बृहत्पर्णमुच्छ्रितं योजनं तथा ।

स्निग्धच्छायं महावृक्षं फलिनं सर्वतः शुभम् ॥ २३ ॥
शीतार्तः कम्पयंस्तत्र प्रविवेश स्ववेश्मवत् ॥ २४ ॥
अग्निं प्रज्वाल्य सहसा शुष्ककाष्ठैः सपर्णकैः ।
सर्वाङ्गं संतपंस्तत्र गतशीतः क्षुधार्दितः ॥ २५ ॥
कंचित्कालं समुत्तिष्ठन्कंचित्कालं स्वपंस्तथा ।
नीत्वा यामद्वयं तत्र सुष्वाप तरुमूलतः ॥ २६ ॥
एतस्मिन्नन्तरे पक्षी तालजङ्घो वटाश्रयः ।
ब्रह्मलोकात्समागत्य स्ववटं पुनराययौ ॥ २७ ॥
वटस्थः किंचिदुच्छ्रास्य चतस्रो दिशो लोकयन् ।
अधःस्थितं नरं दृष्ट्वा चिन्तामाप महत्तराम् ॥ २८ ॥
ममाश्रमगृहद्वारमतिथिः समुपागतः ।

मया किंचित्प्रकर्तव्यमातिथ्यं गृहमेधिना ॥ २९ ॥
तगृहं गृहमित्याहुर्यत्रातिथ्यं प्रकल्पितम् ।

आतिथ्यरहितं वेश्म श्मशानसदृशं मतम् ॥ ३० ॥

21ab K आर्जयाय तथा गत्वा महधनंमवाप्नुवं । 21b L°प्नुयात् । 21d L प्रयया उत्तरां । B प्रययादुत्तरां । 22d LB सुमहद्वटं । 23a B बृहद्वर्ण° । 23dB फलितं । 24a L कंपयन्नत्र । B कंपयन् तत्र । 25b L सुवर्णकैः । 25९ LB संतपन्नत्र । 254 L गतशीत | B क्षुधार्तवान् । 26ab om. K. 26a L किंचि° | 26b L किंचि । स्वपं तथा । B स्वपन् तदा । 27 b L पटात्रयः । 28ab om. K. B दिशः लोकयन् । 28c L अध । गृहमित्याह । 30b B यदातिथ्य |

28b1 दिशमालिहत् ।

30 a L

29d KB गृहमेधिनां । 30 cd om. K. 30d B स्मशान° ।

आतिथ्यकर्मणा विष्णुस्तुष्यत्येव सदा नृणाम् ।
कन्दमूलफलैस्तोयैः शाकेनाथ गृहेन वा ॥ ३१ ॥
आतिथ्यं क्रियते यैस्तु ते गृहस्था इतीरिताः ।
तेनैव रहिता यत्र शेषाः स्युर्गृहराक्षसः ॥ ३२ ॥
अतिथिर्विष्णुरूपेण सदा चरति भूतले ।
तस्मिन्भुक्ते तदा विष्णुर्भुक्तवान्नात्र संशयः ॥ ३३ ॥
अतिथिर्यस्य भनाशो गृहात्प्रतिनिवर्तते ।

स तस्य दुष्कृतिं दत्त्वा पुण्यमादाय गच्छति ॥ ३४ ॥
आप्रातः सायमारभ्य अतिथिर्यत्र वर्तते ।

अन्नं वा शाकमात्रं वा फलं वा मधुरं वचः ॥ ३५ ॥
येन न क्रियते तस्य जन्म निष्फलतामियात् ।
अतोऽहमस्मै दत्त्वानं गृहस्थगतिमाप्नुयाम् ॥ ३६ ॥
इति निश्चित्य मनसा वृक्षादवरुरोह सः ।
शयानं ब्राह्मणं दृष्ट्वा वचनं चेदमब्रवीत् ॥ ३७ ॥
उत्तिष्ठोत्तिष्ठ भद्रं ते यत्ते मनसि वर्तते ।
तत्सर्वं करवाणीह द्विजो यदि भवानिह ॥ ६८ ॥
भुक्त्वान्नं मां पुनीहि त्वं गृहमेधिफलं मम ।
इत्युदीरितमाकर्ण्य पक्षिणस्तद्वचो ऽमृतम् ॥ ३९ ॥

31b B तुष्यतेव ।

शेषास्युर्गृहपक्षिणः । B दोषाः स्युर्गृहर

32b B गृहस्ता ।

[blocks in formation]

33b K चलति ।
34a B अतिथिर्यत्र ।

31a L आतिथ्यं • । 32d K शेषास्तद्गृह° । क्षिणः । 33 I अतिथी । विष्णुः । 33d B भुंक्तवानत्र । प्रतिनिर्वर्तते । 340 K दुष्कृतं । मथवा । 36 B एतन्न क्रियते । 37b K •ततार । 37CL शयान । द्विती यदि भवानिह । 39a Lom. मां ।

LB मया ।

3

34b B

मृष्टांनं शाक° । B शाक

36d L ग्रहस्थ° । ॰प्नुयात् । 380 B सर्व तत्करः । 38 d L 39b B °फलान् ।

तदन्नं भुक्तवान् क्षिप्रं पक्षिणं पुनरब्रवीत् ।

तुष्टोऽस्मि त्वगृहं प्राप्य अर्धरात्रमिहागतः ॥ ४० ॥
तद्विप्रस्य वचः श्रुत्वा द्विजः पुनरथाब्रवीत् ।

कस्त्वं भद्र महाभाग को देशस्तव नाम किम् । किमिहागमनं ते ऽच तत्सर्वं वक्तुमर्हसि ॥ ४१ ॥ ब्राह्मणः । लाटकाख्ये महादेशे गङ्गातीरे मनोरमे ।

वसामि तत्र सुभग भार्यपुत्रसमन्वितः ॥ ४२ ॥
दरिद्रो ऽहं महापापी क्षेत्रधान्यविवर्जितः ।
पुनर्यास्यामि भवनमार्जयित्वा धनादिकम् ॥ ४३ ॥
इति निश्चित्य मनसा गतो ऽहं तव संनिधिम् ।
अकिंचनो नरो लोके मृत एव न संशयः ॥ ४४ ॥
अकिंचनस्य यज्जन्म अकिंचनमिदं वयः ।

अकिंचनमिदं रूपमकिंचनमिदं वचः ।

तत्सर्वं निष्फलं याति विपिनस्थेव चन्द्रिका ॥ ४५ ॥

दारिद्यपीडया नित्यं पत्नीपुत्रैर्विशेषतः ।

दुःखितो ऽहं दिवारात्रमरण्यं गतवानिह ॥ ४६ ॥

मां पाहि पक्षिन्भद्रं ते धनं दत्त्वा दया यदि ॥ ४७ ॥ इति तद्वचनं श्रुत्वा चिन्तयामास चेतसा ।

पुनर्बभाषे तं विप्रं शृणु मे परमं वचः ॥ ४८ ॥

41b LB

42a LB

40a 1. दन्नं । 400 L वगृहं । 40d B ह्यर्ध° । द्विजं । 41d L नामिकं । 410 B किमागमनं तत्र । om. ब्राह्मणः । K नाटकाख्ये । 42b B मनोहरे । 42c LB सुभगा । 42d B भार्यीतत्र० । 45 B यजन्म | 45b B ह्यकिंचन । 45cd om. L. 450 KI विफलं । 451 L विपिनस्येव । 46a L दारिद्र । B दरिद्र । 46b K °पुत्रैरिहागतः । पुत्रै विशेषितः । K शरण्यं । L मरणं । । 47a LB पक्षि । 48 d B om. मे।

B • पुत्रविशेषतः | 4Gd 48c L बभाषैतं विप्रं ।

इतस्त्रियोजनं विप्र तत्रास्ते मत्सखा सुखी ।
राक्षसः कोटिको नाम सर्वसंपत्समन्वितः ॥ ४९ ॥
आगतं त्वामवेक्ष्याथ मां यथा पूजयिष्यति ।
धनं ददाति बहुधा यत्ते मनसि वर्तते ॥ ५० ॥
तेन संभाषणं कुर्वन्पक्षमात्रं तदा वस ।
पक्षान्ते पद्धनं धृत्वा पुनर्यास्यसि मगृहम् ॥ ५१ ॥
इत्युक्त्वा तालजङ्घो ऽसौ पुनर्वृक्षाग्रमास्थितः ।
ततः प्रभाते विमले ब्राह्मणो हर्षमाप्तवान् ॥ ५२ ॥
गमनाय मतिं चक्रे यत्रास्ते तत्र राक्षसः ।
मार्गमध्ये तदागच्छन्ब्राह्मणो ऽयं भयातुरः ॥ ५३ ॥
दरिद्रस्यैव मे साधु मरणं जन्मनो वरम् ।
इति चिन्तयमानो ऽपि प्रपेदे तत्पुरं तदा ॥ ५४ ॥
राक्षसो ऽसौ तदा श्रुत्वा सखायं तालजङ्घवत् ।
प्रत्युज्जगाम सहसा सभृत्यबलवाहनः ॥ ५५ ॥
अर्घ्यपाद्यादिकं दत्त्वा ववन्दे पितृवत्तदा ।

कञ्चित्ते कुशलं ब्रह्मन् तालजङ्घः कुशल्यपि ॥ ५६ ॥
इत आगच्छ भद्रं ते मत्पुरं प्रविवेश्यताम् ।

तच्छ्रुत्वा वचनं तस्य जगाम सह तत्पुरम् ॥ ५७ ॥

49ab L इतिस्त्रीयोजनं विप्रस्तत्रास्ते मत्सखः । K मत्सखस्सुखी ।

B मत्सखाः । 49 K कटको । L खगको ।

50a K त्वामवेच्याद्य ।

51 L एवं सांभाषणं ।

50b B पूजयिष्यसि । 500 1. दत्वाति । 51b K तथा । L वसा । 51d L तङ्घनं statt मद्गृहम् । 53a B गतिं । 53d LB राक्षसो statt ब्राह्मणो । 54a 1 दरिद्रस्य हि मे । B दरिद्रस्य च मे । 54b B मरणों | 55a L राक्षसोदौ । B राक्षसः च । 55b B सचयं ताल° । 55 d_ B_ ॰बलवान् तदा । 56c L कश्चित्ते । 56d L कुशल्ययी । 57 ab om. K. 57b1 प्रविविश्यतां । 57e B तेन statt तस्य ।

56 B कृत्वा ।

57a L इत्यागच्छ । 57 d K सहसा पुरं ।

« ¡è͹˹éÒ´Óà¹Ô¹¡ÒõèÍ
 »